________________ व्युत्पत्तिप्रतिपत्तिहेतुविततस्याद्वादवाग्गुम्फितं तं जैनागममाकलय्य न वयं व्याक्षेपभाजः क्वचित् // 12 // मूलं सर्ववचोगतस्य विदितं जैनेश्वरं शासनं तस्मादेव समुत्थितैर्नयमतैस्तस्यैव यत्खण्डनम् / एतत्किञ्चन कौशलं कलिमलच्छन्नात्मनः स्वाश्रितां शाखां छेत्तुमिवोद्यतस्य कटुकोदर्काय तर्कार्थिनः त्यक्त्वोन्मादविभज्यवादरचनामाकर्ण्य कर्णामृतं सिद्धान्तार्थरहस्यवित् क्व लभतामन्यत्र शास्त्रे रतिम् / यस्यां सर्वनया विशन्ति न पुनर्व्यस्तेषु तेष्वेव या मालायां मणयो लुठन्ति न पुनर्व्यस्तेषु रत्नेषु सा // 14 // अन्योन्यप्रतिपक्षभाववितथान् स्वस्वार्थसत्यान्नयान्नापेक्षाविषयग्रहैविभजते माध्यस्थ्यमास्थाय यः / स्याद्वादे सुपथे निवेश्य हरते तेषां तु दिङ्मूढतां कुन्देन्दुप्रतिमं यशो विजयिनस्तस्यैव संवर्द्धते // 15 // // 1 // // 2 // अनुभवाधिकारः // 20 // शास्त्रोपदर्शितदिशा गलितासद्ग्रहकषायकलुषाणाम् / प्रियमनुभवैकवेद्यं रहस्यमाविर्भवति किमपि . प्रथमाभ्यासविलासादाविभूर्यैव यत्क्षणाल्लीनम् / चञ्चलतरुणीविभ्रमसममुत्तरलं मनः कुरुते सुविदितयोगैरिष्टं क्षिप्तं मूढं तथैव विक्षिप्तं / एकाग्रं च निरुद्धं चेतः पञ्चप्रकारमिति विषयेषु कल्पितेषु च पुरःस्थितेषु च निवेशितं रजसा / सुखदुःखयुग्बहिर्मुखमाम्नातं क्षिप्तमिह चित्तम् . 125 // 3 // // 4 //