________________ // 6 // शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुद्वीक्ष्यते ऊष्मा नार्कमपाकरोति दहनं नैव स्फुलिङ्गावली नाब्धि सिन्धुजलप्लव: सुरगिरि ग्रावा न चाभ्यापतन् / एवं सर्वनयैकभावगरिमस्थानं जिनेन्द्रागमं तत्तद्दर्शनसंकथांशरचनारूपा न हन्तुं क्षमा 7. // दुःसाध्यं परवादिनां परमंतक्षेपं विना स्वं मतं / तत्क्षेपे च कषायपङ्ककलुषं चेतः समापद्यते / सोऽयं निःस्वनिधिग्रहव्यवसितो वेतालकोपक्रमो नायं सर्वहितावहे जिनमते तत्त्वप्रसिद्ध्यर्थिनाम् // 8 // वार्ताः सन्ति सहस्रशः प्रतिमतं ज्ञानांशबद्धक्रमा श्चेतस्तासु न नः प्रयाति नितमां लीनं जिनेन्द्रागमे / नोत्सर्पन्ति लताः कति प्रतिदिशं पुष्पैः पवित्रा मधौ ताभ्यो नैति रति रसालकलिकारक्तस्तु पुंस्कोकिलः // 9 // शब्दो वा मतिरर्थ एव किमु वा जातिः क्रिया वा गुणः शब्दार्थः किमिति स्थिता प्रतिमतं संदेहशङ्कुव्यथा / जैनेन्द्रे तु मते न सा प्रतिपदं जात्यन्तरार्थस्थितेः सामान्यं च विशेषमेव च यथा तात्पर्यमन्विच्छति // 10 // यत्रानर्पितमादधाति गुणतां मुख्यं तु वस्त्वर्पितं तात्पर्यानवलम्बनेन तु भवेद् बोधः स्फुटं लौकिकः / संपूर्णं त्ववभासते कृतधियां कृत्स्नाद्विवक्षाकमात् तां लोकोत्तरभङ्गपद्धतिमयीं स्याद्वादमुद्रां स्तुमः // 11 // आत्मीयानुभवाश्रयार्थविषयोऽप्युच्चैर्यदीयक्रमो म्लेच्छानामिव संस्कृतं तनुधियामाश्चर्यमोहावहः / 124