________________ जिनमतस्तुत्यधिकारः // 19 // उत्सर्पद्व्यवहारनिश्चयकथाकल्लोलकोलाहलत्रस्यहुर्नयवादिकच्छपकुलभ्रश्यत्कुपक्षाचलम् / उद्यधुक्तिनदीप्रवेशसुभगं स्याद्वादमर्यादया युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसै स्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः / एतस्मात् पतितैः प्रवादकुसुमैः षट्दर्शनारामभूभूयःसौरभमुद्वमत्यभिमतैरध्यात्मवार्तालवैः // 2 // चित्रोत्सर्गशुभापवादरचनासानुश्रियालङ्कृतः . श्रद्धानन्दनचन्दनद्रुमनिभप्रज्ञोल्लसत्सौरभः / भ्राम्यद्भिः परदर्शनग्रहगणैरासेव्यमानः सदा . तर्कस्वर्णशिलोच्छितो विजयते जैनागमो मन्दरः स्याद्दोषापगमस्तमांसि जगति क्षीयन्त एव क्षणादध्वानो विशदीभवन्ति निबिडा निद्रा दृशोर्गच्छति / यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्भकल्याणिनी प्रौढत्वं नयगीर्दधाति स रक्जैिनागमो नन्दतात् // 4 // अध्यात्मामृतवर्षिभिः कुवलयोल्लासं विलासैर्गवां तापव्यापविनाशिभिवितनुते लब्धोदयो यः सदा / तर्कस्थाणुशिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः सोऽयं श्रीजिनशासनामृतरुचिः कस्यति नो रुच्यताम् // 5 // बौद्धानामृजुसूत्रतो मतमभूद्वेदान्तिनां संग्रहात् सांख्यानां तत एव नैगमनयाद् योगश्च वैशेषिकः / ... 123