________________ स्वरूपेण च वस्त्रं चेत्केवलज्ञानबाधकम् / / तदा दिक्पटनीत्यैव तत्तदावरणं भवेत् // 186 // इत्थं केवलिनस्तेन मूर्ध्नि क्षिप्तेन केनचित् / केवलित्वं पलायेतेत्यहो किमसमञ्जसम् // 187 // भावलिङ्गात्ततो मोक्षो भिन्नलिङ्गेष्वपि ध्रुवः / कदाग्रहं विमुच्यैतद्भावनीयं मनस्विना / // 188 // अशुद्धनयतो ह्यात्मा बद्धो मुक्त इति स्थितिः / / न शुद्धनयतस्त्वेष बध्यते नापि मुच्यते // 189 // अन्वयव्यतिरेकाभ्यामात्मतत्त्वविनिश्चयम् / . नवभ्योऽपि हि तत्त्वेभ्यः कुर्यादेवं विचक्षणः // 190 // इदं हि परमध्यात्मममृतं ह्यद एव च / इदं हि परमं ज्ञानं योगोऽयं परमः स्मृतः // 191 // गुह्याद्गुह्यतरं तत्त्वमेतत्सूक्ष्मनयाश्रितम् / न देयं स्वल्पबुद्धीनां ते ह्येतस्य विडम्बकाः . // 192 // जनानामल्पबुद्धीनां नैतत्तत्त्वं हितावहम् / . निर्बलानां क्षुधार्तानां भोजनं चक्रिणो यथा // 193 // ज्ञानांशदुर्विदग्धस्य तत्त्वमेतदनर्थकृत् / अशुद्धमन्त्रपाठस्य फणिरत्नग्रहो यथा // 194 // व्यवहाराविनिष्णातो यो जीप्सति विनिश्चयम् / कासारतरणाशक्तः सागरं स तितीर्षति // 195 // व्यवहारं विनिश्चित्य ततः शुद्धनयाश्रितः / आत्मज्ञानरतो भूत्वा परमं साम्यमाश्रयेत् // 196 // मात्रयत् 122