________________ पया। दृढाज्ञानमयीं शङ्कामेनामपनिनीषवः / अध्यात्मशास्त्रमिच्छन्ति श्रोतुं वैराग्यकाक्षिणः // 174 // दिशः प्रदर्शकं शाखाचन्द्रन्यायेन तत्पुनः / प्रत्यक्षविषयां शङ्कां न हि हन्ति परोक्षधीः // 175 // शो श्वैत्यानुमानेऽपि दोषात्पीतत्वधीर्यथा / शास्त्रज्ञानेऽपि मिथ्याधीसंस्काराबन्धधीस्तथा // 176 // श्रुत्वा मत्वा मुहुः स्मृत्वा साक्षादनुभवन्ति ये। तत्त्वं न बन्धधीस्तेषामात्माबद्धः प्रकाशते // 177 // द्रव्यमोक्षः क्षयः कर्मद्रव्याणां नात्मलक्षणम् / भावमोक्षस्तु तद्धेतुरात्मा रत्नत्रयान्वयी // 178 // ज्ञानदर्शनचारित्रैरात्मैक्यं लभते यदा / कर्माणि कुपितानीव भवन्त्याशु तदा. पृथक् // 179 // अतो रत्नत्रयं मोक्षस्तदभावे कृतार्थता / / पाखण्डिगणलिङ्गश्च गृहिलिङ्गश्च कापि न // 180 // पाखण्डिगणलिङ्गेषु गृहिलिङ्गेषु ये रताः / न ते समयसारस्य ज्ञातारो बालबुद्धयः // 181 // भावलिङ्गरता ये स्युः सर्वसारविदो हि ते / लिङ्गस्था वा गृहस्था वा सिध्यन्ति धूतकल्मषाः // 182 // भावलिङ्गं हि मोक्षाङ्गं द्रव्यलिङ्गमकारणम् / द्रव्यं नात्यन्तिकं यस्मान्नाप्येकान्तिकमिष्यते // 183 // यथाजातदशालिङ्गमर्थादव्यभिचारि चेत् / विपक्षबाधकाभावात् तद्धेतुत्वे तु का प्रमा // 184 // वस्त्रादिधारणेच्छा चेद्बाधिका तस्य तां विना / धृतस्य किमवस्थाने करादेरिव बाधकम् // 185 // 121