________________ // 162 // // 163 // // 164 // // 165 // // 166 // // 167 // अज्ञानी तपसा जन्मकोटिभिः कर्म यन्नयेत् / अन्तं ज्ञानतपोयुक्तस्तत् क्षणेनैव संहरेत् ज्ञानयोगस्तपःशुद्धमित्याहुर्मुनिपुङ्गवाः / तस्मान्निकाचितस्यापि कर्मणो युज्यते क्षयः / / यदिहापूर्वकरणं श्रेणिः शुद्धा च जायते / ध्रुवः स्थितिक्षयस्तत्र स्थितानां प्राच्यकर्मणाम् तस्माद् ज्ञानमयः शुद्धस्तपस्वी भावनिर्जरा / शुद्धनिश्चयतस्त्वेषा सदा शुद्धस्य कापि न बन्धः कर्मात्मसंश्लेषो द्रव्यतः स चतुर्विधः / तद्धत्वध्यवसायात्मा भावतस्तु प्रकीत्तितः वेष्टयत्यात्मनात्मानं यथा सर्पस्तथासुमान् / तत्तद्भावैः परिणतो बध्नात्यात्मानमात्मना बध्नाति स्वं यथा कोशकारकीटः स्वतन्तुभिः / आत्मनः स्वगतैर्भावैर्बन्धने सोपमा स्मृता जन्तूनां सापराधानां बन्धकारी न हीश्वरः / तद्बन्धकानवस्थानादबन्धस्याप्रवृत्तितः न त्वज्ञानप्रवृत्त्यर्थे ज्ञानवन्नोदना ध्रुवा / अबुद्धिपूर्वकार्येषु स्वप्नादौ तददर्शनात् तथाभव्यतया जन्तुर्नोदितश्च प्रवर्तते / बध्नन् पुण्यं च पापं च परिणामानुसारतः शुद्धनिश्चयतस्त्वात्मा न बद्धो बन्धशङ्कया / भयकम्पादिकं किंतु रज्जावहिमतेरिव रोगस्थित्यनुसारेण प्रवृत्ती रोगिणो यथा / भवस्थित्यनुसारेण तथा बन्धेऽपि वर्ण्यते 120 // 168 // // 169 // // 170 // // 171 // / / 172 // // 173 //