________________ // 138 // . // 139 // . // 140 // // 141 // . = // 142 // // 143 // हेतुत्वं प्रतिपद्यन्ते नैवैतेऽनियमस्पृशः / . यावन्त आश्रवाः प्रोक्तास्तावन्तो हि परिश्रवाः तस्मादनियतं रूपं बाह्यहेतुषु सर्वथा / नियतौ भाववैचित्र्यादात्मैवाश्रवसंवरौ अज्ञानाद्विषयासक्तो बध्यते विषयैस्तु न / ज्ञानाद्विमुच्यते चात्मा न तु शास्त्रादिपुद्गलात् शास्त्रं गुरोश्च विनयं क्रियामावश्यकानि च / संवराङ्गतया प्राहुर्व्यवहारविशारदाः / विशिष्टा वाक्तनुस्वान्तपुद्गलास्तेऽफलावहाः / ये तु ज्ञानादयो भावाः संवरत्वं प्रयान्ति ते ज्ञानादिभावयुक्तेषु शुभयोगेषु तद्गतम् / संवरत्वं समारोप्य स्मयन्ते व्यवहारिणः ' प्रशस्तरागयुक्तेषु चारित्रादिगुणेष्वपि / शुभाश्रवत्वमारोप्य फलभेदं वदन्ति ते भवनिर्वाणहेतूनां वस्तुतो न विपर्ययः / अज्ञानादेव तद्भानं ज्ञानी तत्र न मुह्यति तीर्थकृन्नामहेतुत्वं यत्सम्यक्त्वस्य वर्ण्यते / यच्चाहारकहेतुत्वं संयमस्यातिशायिनः तप:संयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः / उपचारेण तद्युक्तं स्याद् घृतं दहतीतिवत् येनांशेनात्मनो योगस्तेनांशेनाश्रवो मतः / येनांशेनोपयोगस्तु तेनांशेनास्य संवरः तेनासावंशविश्रान्तौ बिभ्रदाश्रवसंवरौ / भात्यादर्श इव स्वच्छास्वच्छभागद्वयः सदा // 144 // = // 146 // = // 147 // = // 148 // // 149 // 118