________________ // 102 // // 104 // // 105 // // 106 // // 107 // हिनस्ति न परं कोपि निश्चयान्न च रक्षति / तदायुःकर्मणो नाशे मृतिर्जीवनमन्यथा हिंसादयाविकल्पाभ्यां स्वगताभ्यां तु केवलम् / फलं विचित्रमाप्नोति परापेक्षां विना पुमान् शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः / दयैव यतमानस्य वधेऽपि प्राणिनां क्वचित् परस्य युज्यते दानं हरणं वा न कस्यचित् / न धर्मसुखयोर्यत्ते कृतनाशादिदोषतः भिन्नाभ्यां भक्तवित्तादिपुद्गलाभ्यां च ते कुतः / स्वत्वापत्तिर्यतो दानं हरणं स्वत्वनाशनम् कर्मोदयाच्च तद्दानं हरणं वा शरीरिणाम् / . पुरुषाणां प्रयासः कस्तत्रोपनमति स्वतः स्वगताभ्यां तु भावाभ्यां केवलं दानचौर्ययोः / अनुग्रहोपघातौ स्तः परापेक्षा परस्य न . पराश्रितानां भावानां कर्तृत्वाद्यभिमानतः / कर्मणा बध्यतेऽज्ञानी ज्ञानवांस्तु न लिप्यते कर्तवमात्मा नो पुण्यपापयोरपि कर्मणोः / रागद्वेषाशयानां तु कर्तेष्टानिष्टवस्तुषु . रज्यते द्वेष्टि वार्थेषु तत्तत्कार्यविकल्पतः / आत्मा यदा तदा कर्म भ्रमादात्मनि युज्यते स्नेहाभ्यक्ततनोरङ्गं रेणुनाश्लिष्यते यथा / रागद्वेषानुविद्धस्य कर्मबन्धस्तथा मतः / लोहं स्वक्रिययाभ्येति भ्रामकोपलसंनिधौ / यथा कर्म तथा चित्रं रक्तद्विष्टात्मसंनिधौ // 108 // // 109 // // 110 // // 111 // // 112 // // 113 // 115