________________ // 78 // // 79 // // 80 // // 81 // // 82 // // 83 // साक्षिणः सुखरूपस्य सुषुप्तौ निरहंकृतेः / यथा भानं तथा शुद्धविवेके तदतिस्फुटम् तच्चिदानन्दभावस्य भोक्तात्मा शुद्धनिश्चयात् / अशुद्धनिश्चयात्कर्मकृतयोः सुखदुःखयोः कर्मणोऽपि च भोगस्य स्रगादेर्व्यवहारतः / नैगमादिव्यवस्थापि भावनीयाऽनया दिशा कर्त्तापि शुद्धभावानामात्मा शुद्धनयाद्विभुः / प्रतीत्य वृत्तिं यच्छुद्धक्षणानामेष मन्यते अनुपप्लवसाम्राज्ये विसभागपरिक्षये / आत्मा शुद्धस्वभावानां जननाय प्रवर्तते चित्तमेव हि संसारो रागादिक्लेशवासितम् / / तदेव तैविनिर्मुक्तं भवान्त इति कथ्यते यश्च चित्तक्षण: क्लिष्टो नासावात्मा विरोधतः / अनन्यविकृतं रूपमित्यन्वर्थं ह्यदः पदम् . श्रुतं चानुपयोगश्चेत्येतन्मिथ्या यथा वचः / तथात्मा शुद्धरूपश्चेत्येवं शब्दनया जगुः शुद्धपर्यायरूपस्तदात्मा शुद्धः स्वभावकृत् / प्रथमाप्रथमत्वादिभेदोऽप्येवं हि तात्त्विकः ये तु दिक्पटदेशीयाः शुद्धद्रव्यतयात्मनः / शुद्धस्वभावकर्तृत्वं जगुस्तेऽपूर्वबुद्धयः / द्रव्यास्तिकस्य प्रकृतिः शुद्धा संग्रहगोचरा / येनोक्ता संमतौ श्रीमत्सिद्धसेनदिवाकरैः तन्मते च न कर्तृत्वं भावानां सर्वदान्वयात् / कूटस्थः केवलं तिष्ठत्यात्मा साक्षित्वमाश्रितः // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // 113