________________ // 66 // // 67 / / .. // 68 // // 69 // // 70 // // 71 // जलूकाः सुखमानिन्यः पिबन्त्यो रुधिरं यथा / भुञ्जाना विषयान् यान्ति दशामन्तेऽतिदारुणाम् तीव्राग्निसङ्गसंशुष्यत्पयसामयसामिव / यत्रौत्सुक्यात्सदाऽक्षाणां तप्तता तत्र किं सुखम् प्राक्पश्चाच्चारतिस्पर्शात्पुटपाकमुपेयुषि / इन्द्रियाणां गणे तापव्याप एव न निर्वृतिः सदा यत्र स्थितो द्वेषोल्लेख: स्वप्रतिपन्थिषु / सुखानुभवकालेऽपि तत्र तापहतं मनः / स्कन्धात् स्कन्धान्तरारोपे भारस्येव न तत्त्वतः / अक्षाह्लादेऽपि दुःखस्य संस्कारो विनिवर्त्तते सुखं दुःखं च मोहश्च तिस्रोऽपि गुणवृत्तयः / विरुद्धा अपि वर्तन्ते दुःखजात्यनतिक्रमोत् क्रुद्धनागफणाभोगोपमो भोगोद्भवोऽखिलः / विलासश्चित्ररूपोऽपि भयहेतुर्विवेकिनाम् / इत्थमेकत्वमापन्नं फलतः पुण्यपापयोः / मन्यते यो न मूढात्मा नान्तस्तस्य भवोदधेः दुःखैकरूपयोभिन्नस्तेनात्मा पुण्यपापयोः / शुद्धनिश्चयतः सत्यचिदानन्दमयः सदा तत् तुरीयदशाव्यङ्ग्यरूपमावरणक्षयात् / भात्युष्णोद्योतशीलस्य घननाशाद्रवेरिव जायन्ते जाग्रतोऽक्षेभ्यश्चित्रा धीसुखवृत्तयः / सामान्यं तु चिदानन्दरूपं सर्वदशान्वयि स्फुलिङ्गर्न यथा वह्निर्दीप्यते ताप्यतेऽथवा / नानुभूतिपराभूती तथैताभिः किलात्मनः // 73 // // 74 // // 75 // // 76 // ' // 77 // 112