________________ = अजीवा जन्मिनः शुद्धभावप्राणव्यपेक्षया / सिद्धाश्च निर्मलज्ञाना द्रव्यप्राणव्यपेक्षया // 54 // इन्द्रियाणि बलं श्वासोच्छ्वासो ह्यायुस्तथा परम् / द्रव्यप्राणाश्चतुर्भेदाः पर्यायाः पुद्गलाश्रिताः भिन्नास्ते ह्यात्मनोऽत्यन्तं तदेतैर्नास्ति जीवनम् / ज्ञानवीर्यसदाश्वासनित्यस्थितिविकारिभिः // 56 // एतत्प्रकृतिभूताभिः शाश्वतीभिस्तु शक्तिभिः / जीवत्यात्मा सदेत्येषा शुद्धद्रव्यनयस्थितिः // 57 // जीवो जीवति न प्राणैविना तैरेव जीवति / इदं चित्रं चरित्रं के हन्त पर्यनुयुञ्जताम् // 58 // नात्मा पुण्यं न वा पापमेते यत्पुद्गलात्मके / आद्यबालशरीरस्योपादानत्वेन कल्पिते // 59 // पुण्यं कर्म शुभं प्रोक्तमशुभं पापमुच्यते / तत्कथं तु शुभं जन्तून् यत् पातयति जन्मनि // 60 // न ह्यायसस्य बन्धस्य तपनीयमयस्य च / पारतन्त्र्याविशेषेण फलभेदोऽस्ति कश्चन // 61 // फलाभ्यां सुखदुःखाभ्यां न भेदः पुण्यपापयोः / / / दुःखान्न भिद्यते हन्त यतः पुण्यफलं सुखम् // 62 // सर्वपुण्यफलं दुःखं कर्मोदयकृतत्वतः / / तत्र दुःखप्रतीकारे विमूढानां सुखत्वधीः // 63 // परिणामाच्च तापाच्च संस्काराच्च बुधैर्मतम् / गुणवृत्तिविरोधाच्च दुःखं पुण्यभवं सुखम् // 64 // देहपुष्टेनरामर्त्यनारकानामपि स्फुटम् / महाजपोषणस्येव परिणामोऽतिदारुणः // 65 // = = . 111