________________ // 30 // // 31 // // 32 // = // 34 // // 35 // = गन्धर्वनगरादीनामम्बरे डम्बरो यथा / तथा संयोगजः सर्वो विलासो वितथाकृतिः इति शुद्धनयायत्तमेकत्वं प्राप्तमात्मनि / अंशादिकल्पनाप्यस्य नेष्टा यत्पूर्णवादिनः एक आत्मेति सूत्रस्याप्ययमेवाशयो मतः / प्रत्यग्ज्योतिषमात्मानमाहुः शुद्धनयाः खलु प्रपञ्चसंचयक्लिष्टान्मायारूपाद्बिभेमि ते / प्रसीद भगवन्नात्मन् शुद्धरूपं प्रकाशय देहेन सममेकत्वं मन्यते व्यवहारवित् / कथंचिन्मूर्ततापत्तेर्वेदनादिसमुद्भवात् तन्निश्चयो न सहते यदमूर्तो न मूर्तताम् / . अंशेनाप्यवगाहेत पावकः शीततामिव उष्णस्याग्नेर्यथा योगाद् घृतमुष्णमिति भ्रमः / तथा मूर्ताङ्गसंबन्धादात्मा मूर्त इति भ्रमः न रूपं न रसो गन्धो न न स्पर्शो न चाकृतिः / यस्य धर्मो न शब्दो वा तस्य का नाम मूर्तता दृशादृश्यं हृदाग्राह्यं वाचामपि न गोचरः / स्वप्रकाशं हि यद्रूपं तस्य का नाम मूर्तता आत्मा सत्यचिदानन्दः सूक्ष्मात्सूक्ष्मः परात्परः / स्पृशत्यपि न मूर्तत्त्वं तथा चोक्तं परैरपि इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः / मनसोऽपि परा बुद्धिर्यो बुद्धेः परतस्तु सः विकले हन्त लोकेऽस्मिन्नमूर्ते मूर्त्तताभ्रमात् / पश्यत्याश्चर्यवद् ज्ञानी वदत्याश्चर्यवद्वचः - 100 // 36 // // 37 // // 38 // // 39 // ' // 40 // // 41 //