________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // उपाधिकर्मजो नास्ति व्यवहारस्त्वकर्मणः / . इत्यागमवचो लुप्तमात्मवैरूप्यवादिना एकक्षेत्रस्थितोऽप्येति नात्मा कर्मगुणान्वयम् / तथाभव्यस्वभावत्वाच्छुद्धो धर्मास्तिकायवत् यथा तैमिरिकश्चन्द्रमप्येकं मन्यते द्विधा / अनिश्चयकृतोन्मादस्तथात्मानमनेकधा यथानुभूयते ह्येकं स्वरूपास्तित्वमन्वयात् / सादृश्यास्तित्वमप्येकमविरुद्धं तथात्मनाम् सदसद्वादपिशुनात् संगोप्य व्यवहारतः / . दर्शयत्येकतारत्नं सतां शुद्धनयः सुहृत् नृनारकादिपर्यायैरप्युत्पन्नविनश्वरैः / भिन्नैर्जहाति नैकत्वमात्मद्रव्यं सदान्वयि' यथैकं हेम केयूरकुण्डलादिषु वर्त्तते / नृनारकादिभावेषु तथात्मैको निरञ्जनः कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः / कर्म क्रियास्वभावं यदात्मात्वज स्वभाववान् नाणूनां कर्मणो वासौ भवसर्गः स्वभावजः / एकैकविरहेऽभावान्न च तत्त्वान्तरं स्थितम् श्वेतद्रव्यकृतं श्वैत्यं भित्तिभागे यथा द्वयोः / भात्यनन्तर्भवच्छून्यं प्रपञ्चोऽपि तथेक्ष्यताम् यथा स्वप्नावबुद्धोऽर्थो विबुद्धेन न दृश्यते / व्यवहारमतः सर्गो ज्ञानिना न तथेक्ष्यते मध्याह्ने मृगतृष्णायां पयःपूरो यथेक्ष्यते / तथा संयोगजः सर्गो विवेकाख्यातिविप्लवे . // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // 108