________________ // 7 // // 8 // // 9 // // 10 // एक एव हि तत्रात्मा स्वभावसमवस्थितः / ज्ञानदर्शनचारित्रलक्षणः प्रतिपादितः प्रभानैर्मल्यशक्तीनां यथा रत्नान्न भिन्नता / ज्ञानदर्शनचारित्रलक्षणानां तथात्मनः आत्मनो लक्षणानां च व्यवहारो हि भिन्नताम् / षष्ठ्यादिव्यपदेशेन मन्यते न तु निश्चयः घटस्य रूपमित्यत्र यथा भेदो विकल्पजः / आत्मनश्च गुणानां च तथा भेदो न तात्त्विकः शुद्धं यदात्मनो रूपं निश्चयेनानुभूयते / व्यवहारो भिदाद्वारानुभावयति तत्परम् वस्तुतस्तु गुणानां तद्रूपं न स्वात्मनः पृथक् / आत्मा स्यादन्यथाऽनात्मा ज्ञानाद्यपि जडं भवेत् चैतन्यपरसामान्यात् सर्वेषामेकतात्मनाम् / निश्चिता कर्मजनितो भेदः पुनरुपप्लवः मन्यते व्यवहारस्तु भूतग्रामादिभेदतः / . जन्मादेश्च व्यवस्थातो मिथो नानात्वमात्मनाम् न चैतन्निश्चये युक्तं भूतग्रामो यतोऽखिलः / नामकर्मप्रकृतिजः स्वभावो नात्मनः पुनः जन्मादिकोऽपि नियतः परिणामो हि कर्मणाम् / / नं च कर्मकृतो भेदः स्यादात्मन्यविकारिणि आरोप्य केवलं कर्म कृतां विकृतिमात्मनि / भ्रमन्ति भ्रष्टविज्ञाना भीमे संसारसागरे उपाधिभेदजं भेदं वेत्त्यज्ञः स्फटिके यथा / तथा कर्मकृतं भेदमात्मन्येवाभिमन्यते // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // . 100