________________ // 72 // // 73 // // 74 // .. // 75 // // 76 // // 77 // शीलसंयमयुक्तस्य ध्यायतो धर्म्यमुत्तमम् / स्वर्गप्राप्तिं फलं प्राहुः प्रौढपुण्यानुबन्धिनीम् ध्यायेच्छुक्लमथ क्षान्तिमृदुत्वार्जवमुक्तिभिः / छद्मस्थोऽणौ मनो धृत्वा व्यपनीय मनो जिनः .. सवितर्क सविचारं सपृथक्त्वं तदादिमम् / . नानानयाश्रितं तत्र वितर्कः पूर्वगं श्रुतम् अर्थव्यञ्जनयोगानां विचारोऽन्योन्यसंक्रमः / पृथक्त्वं द्रव्यपर्यायगुणान्तरगतिः पुनः त्रियोगयोगिनः साधोवितर्काद्यन्वितं ह्यदः / ईषच्चलत्तरङ्गाऽब्धेः क्षोभाभावदशानिभम् एकत्वेन वितर्केण विचारेण च संयुतम् / निर्वातस्थप्रदीपाभं द्वितीयं त्वेकपर्ययम् सूक्ष्मक्रियानिवृत्त्याख्यं तृतीयं तु जिनस्य तत् / अर्धरुद्धाङ्गयोगस्य रुद्धयोगद्वयस्य च तुरीयं तु समुच्छिन्नक्रियमप्रतिपाति तत् / शैलवन्निष्प्रकम्पस्य शैलेश्यां विश्ववेदिनः एतच्चतुर्विधं शुक्लध्यानमत्र द्वयोः फलम् / आद्ययोः सुरलोकाप्तिरन्त्ययोस्तु महोदयः आश्रवापायसंसारानुभावभवसंततीः / अर्थे विपरिणामं वानुपश्येच्छुक्लविश्रमे द्वयोः शुक्ला तृतीये च लेश्या सा परमा मता / चतुर्थशुक्लभेदस्तु लेश्यातीतः प्रकीर्तितः लिङ्गं निर्मलयोगस्य शुक्लध्यानवतोऽवधः / असंमोहो विवेकश्च व्युत्सर्गश्चाभिधीयते 104 // 78 // // 79 // // 80 // // 81 // // 82 //