________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // ततः प्राप्तमहानन्दा धर्मभूपप्रसादतः / यथा कृतार्था जायन्ते साधवो व्यवहारिणः विचिन्तयेत्तथा सर्वं धर्मध्याननिविष्टधीः / ईदृगन्यदपि न्यस्तमर्थजातं यदागमे मनसश्चेन्द्रियाणां च जयाद्यो निर्विकारधीः / धर्मध्यानस्य स ध्याता शान्तोदात्तः प्रकीर्तितः परैरपि यदिष्टं च स्थितप्रज्ञस्य लक्षणम् / घटते ह्यत्र तत्सर्वं तथा चेदं व्यवस्थितम् प्रजहाति यदा कामान् सर्वान् पार्थ ! मनोगतान् / आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः / वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् / . नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता. यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः / इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता शान्तो दान्तो भवेदीहगात्मारामतया स्थितः / सिद्धस्य हि स्वभावो यः सैव साधकयोग्यता ध्यातायमेव शुक्लस्याप्रमत्तः पादयोर्द्वयोः / पूर्वविद् योग्ययोगी च केवली परयोस्तयोः अनित्यत्वाद्यनुप्रेक्षा ध्यानस्योपरमेऽपि हि / भावयेन्नित्यमभ्रान्तः प्राणा ध्यानस्य ताः खलु तीव्रादिभेदभाजः स्युर्लेश्यास्तिस्र इहोत्तराः / / लिङ्गान्यत्रागमश्रद्धा विनयः सद्गुणस्तुतिः 103 // 66 // // 67 // // 68 // // 69 // // 70 // // 71 //