________________ // 12 // // 13 // // 14 // // 15 // // 17 // चौर्यधीनिरपेक्षस्य तीव्रक्रोधाकुलस्य च / सर्वाभिशङ्काकलुषं चित्तं च धनरक्षणे एतत्सदोषकरणकारणानुमतिस्थिति / देशविरतिपर्यन्तं रौद्रध्यानं चतुर्विधम् कापोतनीलकृष्णानां लेश्यानामत्र संभवः / अतिसंक्लिष्टरूपाणां कर्मणां परिणामतः उत्सन्नबहुदोषत्वं नानामारणदोषता / हिंसादिषु प्रवृत्तिश्च कृत्वाचं स्मयमानता निर्दयत्वाननुशयौ बहुमानः परापदि / लिङ्गान्यत्रेत्यदो धीरैस्त्याज्यं नरकदुःखदम् अप्रशस्ते इमे ध्याने दुरन्ते चिरसंस्तुते / प्रशस्तं तु कृताभ्यासो ध्यानमारोढुमर्हति भावना देशकालौ च स्वासनालम्बनक्रमान् / ध्यातव्यध्यात्रनुप्रेक्षालेश्यालिङ्गफलानि च ज्ञात्वा धर्म्यं ततो ध्यायेच्चतस्रस्तत्र भावनाः / ज्ञानदर्शनचारित्रवैराग्याख्याः प्रकीर्तिताः निश्चलत्वमसंमोहो निर्जरा पूर्वकर्मणाम् / सङ्गाशंसाभयोच्छेदः फलान्यासां यथाक्रमम् स्थिरचित्तः किलैताभिर्याति ध्यानस्य योग्यताम् / योग्यतैव हि नान्यस्य तथाचोक्तं परैरपि चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवत् दृढम् / तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् असंशयं महाबाहो मनो दुर्निग्रहं चलम् / अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते // 18 // // 19 // // 21 // // 22 // // 23 //