________________ // 4 // ध्यानाधिकारः // 16 // स्थिरमध्यवसानं यत्तद्ध्यानं चित्तमस्थिरम् / भावना वाप्यनुप्रेक्षा चिन्ता वा तत्रिधा मतम् मुहूर्तान्तर्भवेद्यानमेकार्थे मनसः स्थितिः / बह्वर्थसंक्रमे दीर्घाप्यच्छिन्ना ध्यानसंततिः आर्तं रौद्रं च धयं च शुक्लं चेति चतुर्विधम् / तत् स्याद्भेदाविह द्वौ द्वौ कारणं भवमोक्षयोः शब्दादीनामनिष्टानां वियोगासंप्रयोगयोः / . चिन्तनं वेदनायाश्च व्याकुलत्वमुपेयुषः इष्टानां प्रणिधानं च संप्रयोगावियोगयोः / निदानचिन्तनं पापमार्त्तमित्थं चतुर्विधम् कापोतनीलकृष्णानां लेश्यानामत्र संभवः / अनतिक्लिष्टभावानां कर्मणां परिणामतः क्रन्दनं रुदनं प्रोच्चैः शोचनं परिदेवनम् / . ताडनं लुञ्चनं चेति लिङ्गान्यस्य विदुर्बुधाः मोघं निन्दन्निजं कृत्यं प्रशंसन् परसंपदः / विस्मितः प्रार्थयन्नेताः प्रसक्तश्चैतदर्जने प्रमत्तश्चेन्द्रियार्थेषु गृद्धो धर्मपराङ्मुखः / जिनोक्तमपुरस्कुर्वन्नार्तध्याने प्रवर्त्तते प्रमत्तान्तगुणस्थानानुगतं तन्महात्मनाम् / सर्वप्रमादमूलत्वात्याज्यं तिर्यग्गतिप्रदम् निर्दयं वधबन्धादिचिन्तनं निबिडकुधा। .. पिशुनासभ्यमिथ्यावाक् प्रणिधानं च मायया . . // 6 // // 8 // // 11 // .