________________ // 37 // . // 39 // // 40 // // 41 // पापाकरणमात्राद्धि न मौनं विचिकित्सया / अनन्यपरमात्साम्यात् ज्ञानयोगी भवेन्मुनिः विषयेषु न रागी वा द्वेषी वा मौनमश्नुते / समं रूपं विदंस्तेषु ज्ञानयोगी न लिप्यते सतत्त्वचिन्तया यस्याभिसमन्वागता इमे / आत्मवान् ज्ञानवान्वेद धर्मब्रह्ममयो हि सः वैषम्यबीजमज्ञानं निघ्नन्ति ज्ञानयोगिनः / विषयांस्ते परिज्ञाय लोकं जानन्ति तत्त्वतः इतश्चापूर्वविज्ञानाच्चिदानन्दविनोदिनः / . ज्योतिष्मन्तो भवन्त्येते ज्ञाननि—तकल्मषाः तेजोलेश्याविवृद्धिर्या पर्यायक्रमवृद्धितः / भाषिता भगवत्यादौ सेत्थम्भूतस्य युज्यते विषमेऽपि समेक्षी यः स ज्ञानी स च पण्डितः / जीवन्मुक्तः स्थिरं ब्रह्म तथा चोक्तं परैरपि विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि / - शुनि चैव श्वपाके च पण्डिताः समदर्शिनः इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः / निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् / स्थिरबुद्धिरसंमूढो ब्रह्मविद् ब्रह्मणि स्थितः अर्वाग्दशायां दोषाय वैषम्ये साम्यदर्शनम् / निरपेक्षमुनीनां तु रागद्वेषक्षयाय तत् रागद्वेषक्षयादेति ज्ञानी विषयशून्यताम् / छिद्यते भिद्यते वाऽयं हन्यते वा न जातुचित् / 94 // 42 // // 43 // // 44 // // 45 // || 46 // // 47 //