________________ // 48 // // 49 // // 50 // // 51 // // 52 // अनुस्मरति नातीतं नैव काङ्क्षत्यनागतम् / शीतोष्णसुखदुःखेषु समो मानापमानयोः जितेन्द्रियो जितक्रोधो मानमायानुपद्रुतः / लोभसंस्पर्शरहितो वेदखेदविवर्जितः संनिरुध्यात्मनात्मानं स्थितः स्वकृतकर्मवित्. / हठप्रयत्नोपरतः सहजाचारसेवनात् लोकसंज्ञाविनिर्मुक्तो मिथ्याचारप्रपञ्चहृत् / उल्लसत्कण्डकस्थानः परेण परमाश्रितः श्रद्धावानाज्ञया युक्तः शस्त्रातीतो यशस्त्रवान् / गतो दृष्टेषु निर्वेदमनिह्नतपराक्रमः निक्षिप्तदण्डो ध्यानाग्निदग्धपापेन्धनव्रजः / प्रतिस्रोतोऽनुगत्वेन लोकोत्तरचरित्रभृत् लब्धान् कामान्बहिष्कुर्वन्नकुर्वन्बहुरूपताम् / स्फारीकुर्वन् परं चक्षुरपरं च निमीलयन् पश्यन्नन्तर्गतान् भावान् पूर्णभावमुपागतः / भुञ्जानोऽध्यात्मसाम्राज्यमवशिष्टं न पश्यति श्रेष्ठो हि ज्ञानयोगोऽयमध्यात्मन्येव यज्जगौ। . बन्धप्रमोक्षं भगवान् लोकसारे सुनिश्चितम् उपयोगैकसारत्वादाश्वसंमोहबोधतः / / मोक्षाप्तेर्युज्यते चैतत्तथाचोक्तं परैरपि तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽप्यधिको मतः / कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन समापत्तिरिह व्यक्तमात्मनः परमात्मनि / अभेदोपासनारूपस्ततः श्रेष्ठतरो ह्ययम् / / 54 // // 55 // // 56 // // 57 // // 58 // // 59 // .. . . 5