________________ तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेषः 10 (491) / हेयेतरभावाधिगमप्रतिबन्धविधानान्मोहः 11 (492) / सत्स्वेतेषु न यथावस्थितं सुखम्, स्वधातुवैषम्यात् 12 (493) / क्षीणेषु तु न दुःखम्, निमित्ताभावात् 13 (494) / आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्तेस्तत्तथास्वभावत्वात् परमसुखभाव इति 14 (495) / देवेन्द्रहर्षजननम् 15 (496) / पूजानुग्रहाङ्गता 16 (497) / प्रातिहार्योपयोगः 17 (498) / परं परार्थकरणम् 18 (499) / अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यैर्वचनभानुभिः 19 (500) / सूक्ष्मभावप्रतिपत्तिः 20 (501) / श्रद्धामृतास्वादनम् 21 (502) / सदनुष्ठानयोगः 22. (503) / परमापायहानिः 23 (504) / सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निर्वृतेः 24 (505) / इति परं परार्थकरणम् 25 (506) / भवोपग्राहिकर्मविगमः 26 (507) / निर्वाणगमनम् 27 (508) / पुनर्जन्माद्यभावः. 28 (509) / बीजाभावतोऽयम् 29 (510) / कर्मविपाकस्तत् 30 (511) / अकर्मा चासौ 31 (51-2) / तद्वत एव तद्ग्रहः 32 (513) / तदनादित्वेन तथाभावसिद्धेः 33 (514) / सर्वविप्रमुक्तस्य तु तथास्वभावत्वानिष्ठितार्थत्वान्न तद्ग्रहणे निमित्तम् 34 (515) / नाजन्मनो जरा 35 (516) / न मरणभयशक्तिः 36 (517) / न चान्य उपद्रवः 37 (518) / विशुद्धस्वरूपलाभः 38 (519) / आत्यन्तिकी व्याबाधानिवृत्तिः 39 (520) / सा निरुपमं सुखम् 40 (521) / सर्वत्राप्रवृत्तेः 41 (522) / समाप्तकार्यत्वात् 42 (523) / न चैतस्य क्वचिदौत्सुक्यम् 43 (524) / दुःखं चैतत् स्वास्थ्यविनाशनेन 44 (525) / दुःखशक्त्युद्रेकतोऽस्वास्थ्यसिद्धेः 45 (526) / हितप्रवृत्त्या 46 (527) / स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेः 47 (528) / परमस्वास्थ्यहेतुत्वात् परमार्थतः स्वास्थ्यमेव 48 (529) / भावसारे हि प्रवृत्त्यप्रवृत्ती सर्वत्र