________________ // 43 // (481) / यत्किञ्चन शुभं लोके स्थानं तत्सर्वमेव हि / अनुबन्धगुणोपेतं धर्मादाप्नोति मानवः // 40 // धर्मश्चिन्तामणिः श्रेष्ठो धर्मः कल्याणमुत्तमम् / हित एकान्ततो धर्मो धर्म एवामृतं परम् // 41 // चतुर्दशमहारत्नसद्भोगानृष्वनुत्तमम् / चक्रवर्तिपदं प्रोक्तं धर्महेलाविजृम्भितम् // 42 // ॥अष्टमः अध्यायः // किं चेह बहुनोक्तेन तीर्थकृत्त्वं जगद्धितम् / परिशुद्धादवाप्नोति धर्माभ्यासान्नरोत्तमः नातः परं जगत्यस्मिन् विद्यते स्थानमुत्तमम् / तीर्थकृत्त्वं यथा सम्यक् स्वपरार्थप्रसाधकम् पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्करम् / तथैव स्वार्थसंसिद्ध्या परं निर्वाणकारणम् // 45 // इत्युक्तप्रायं धर्मफलम्, इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्यामः 1 (482) / तच्च सुखपरम्परया प्रकृष्टभावशुद्धः सामान्यचरमजन्म तथा तीर्थकृत्त्वं च 2 (483) / तत्राक्लिष्टमनुत्तरं विषयसौख्यम्, हीनभावविगमः, उदग्रतरसम्पत्, प्रभूतोपकारकरणम्, आशयविशुद्धिः, धर्मप्रधानंता, अवन्ध्यक्रियत्वम् 3 (484) / विशुद्ध्यमानाप्रतिपातिचरणावाप्तिः, तत्सात्म्यभावः, भव्यप्रमोदहेतुता, ध्यानसुखयोगः, अतिशयर्द्धिप्राति: 4 (485) / अपूर्वकरणम्, क्षपकश्रेणिः, मोहसागरोत्तारः, केवलाभिव्यक्तिः, परमसुखलाभ: 5 (486) / सदारोग्याप्तेः 6 (487) / भावसंनिपातक्षयात् 7 (488) / रागद्वेषमोहा हि दोषाः, तथा तथाऽऽत्मदूषणात् 8 (489) / अविषयेऽभिष्वङ्गकरणाद्रागः 9 (490) / // 44 // Se