________________ केऽन्वयेन उदग्रे सदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवद्यं जन्म 9 (452) / सुन्दरं रूपम्, आलयो लक्षणानाम्, रहितमामयेन, युक्तं प्रज्ञया, संगतं कलाकलापेन 10 (453) / गुणपक्षपात: 1, असदाचारभीरुता 2, कल्याणमित्रयोगः 3, सत्कथाश्रवणम् 4, मार्गानुगो बोधः 5, सर्वोचितप्राप्ति:, हिताय सत्त्वसंघातस्य, परितोषकरी गुरूणाम्, संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानाम् 6, अत्युदार आशयः 7, असाधारप्पा विषयाः, रहिताः संक्लेशेन, अपरोपतापिनः, अमङ्गुलावसानाः 8 11 (454) / काले धर्मप्रतिपत्तिः 12 (455) / गुरुसहायसंपत् 13 (456) / साधु संयभानुष्ठानम् 14 (457). / परिशुद्धाराधना 15 (458) / विधिवच्छरीरत्यागः 16 (459) / विशिष्टतरं देवस्थानम् 17 (460) / सर्वमेव शुभतरं तत्र 18 (461) / गति शरीरादिहीनम् 19 (462) / रहितमौत्सुक्यदुःखेन 20 (463) / अतिविशिष्टाह्मदादिमत् 21 (464) / तच्च्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेण 22 (465) / विशिष्टतरं तु सर्वम् 23 (466) / क्लिष्टकर्मविगमात् 24 (467) / शुभतरोदयात् 25 (468) / जीववीर्योल्लासांत् 26 (469) / परिणतिवृद्धेः 27 (470) / तत्तथास्वभावत्वात् 28 (471) / प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात् प्रासङ्गिकत्वादभिष्वङ्गाभावात् कुत्सिताप्रवृत्तेः शुभानुबन्धित्वादुदारसुखसाधनान्येव बन्धहेतुत्वाभावेन 29 (472) / अशुभपरिणाम एव हि प्रधानं बन्धकारणम्, तदङ्गतया तु बाह्यम् 30 (473) / तदभावे बाह्यादल्पबन्धभावात् 31 (474) / वचनप्रामाण्यात् 32 (475) / बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेः 33 (476) / एवं परिणाम एव शुभो मोक्षकारणमपि 34 (477) / तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेः 35 (478) / सर्वजीवाना मेवानन्तशो ग्रैवेयकोपपातश्रवणात् 36 (479) / समग्रक्रियाऽभावे तदप्राप्ते: 37 (480) / इत्यप्रमादसुखवृद्ध्या तत्काष्ठासिद्धौ निर्वाणा वाप्तिरिति 38 68