________________ एवंविधयतेः प्रायो भावशुद्धेर्महात्मनः / विनिवृत्ताग्रहस्योच्चैर्मोक्षतुल्यो भवोऽपि हि . // 34 // सद्दर्शनादिसंप्राप्ते: संतोषमृतयोगतः / भावैश्वर्यप्रधानत्वात् तदासन्नत्वतस्तथा // 35 // उक्तं मासादिपर्यायवृद्ध्या द्वादशभिः परम् / तेजः प्राप्नोति चारित्री सर्वदेवेभ्य उत्तमम् // 36 // . ॥सप्तमोऽध्यायः // फलप्रधान आरम्भ इति सल्लोकनीतितः / संक्षेपादुक्तमस्येदं व्यासत: पुनरुच्यते // 37 // प्रवृत्त्यङ्गमदः श्रेष्ठं सत्त्वानां प्रायशश्च यत् / आदौ सर्वत्र तद्युक्तमभिधातुमिदं पुनः // 38 // विशिष्टं देवसौख्यं यत् शिवसौख्यं च यत्परम् / धर्मकल्पद्रुमस्येदं फलमाहुर्मनीषिणः . // 39 / / इत्युक्तो धर्मः, साम्प्रतमस्य फलमनुवर्णयिष्यामः 1 (444) द्विविधं फलम्-अनन्तरपरम्परभेदात् 2 (445) / तत्रानन्तरफलमुपप्लवहासः 3 (446) / भावैश्वर्यवृद्धिः 4 (447) / जनप्रियत्वम् 5 (448) / परम्पराफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तिः 6 (449) / सुगतिविशिष्टदेवस्थानम् 7 (450) / तत्रोत्तमा रूपसंपत्, सत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वम्, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवहः, मनोहराण्युद्यानानि, रम्या जलाशयाः, कान्ता अप्सरसः, अतिनिपुणाः किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः, सदा चित्ताह्लादः, अनेकसुखहेतुत्वम्, कुशलानुबन्धः, महाकल्याणपूजाकरणम्, तीर्थकरसेवा, सद्धर्मश्रुतौ रतिः, सदा सुखित्वम् 8 (451) / तच्च्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्कलङ् .. . 67