________________ 43 (410) / तदाज्ञाऽऽराधनाच्च तद्भक्तिरेव 44 (411) / उपदेशपालनैव भगवद्भक्तिः, नान्या, कृतकृत्यत्वात् 45 (412) / उचितद्रव्यस्तवस्यापि तद्रूपत्वात् 46 (413) / भावस्तवाङ्गतया विधानात् 47 (414) / हृदि स्थिते च भगवति क्लिष्टकर्मविगमः 48 (415) / जलानलवदनयोविरोधात् 49 (416) / इत्युचितानुष्ठानमेव सर्वत्र प्रधानम् 50 (417) / प्रायोऽतिचारासंभवात् 51 (418) / यथाशक्ति प्रवृत्तेः 52 (419) / सद्भावप्रतिबन्धात् 53 (420) / इतरथाऽऽर्तध्यानापत्तिः 54 (421) / अकालौत्सुक्यस्य तत्त्वतस्तत्त्वात् 55 (422) / नेदं प्रवृत्तिकालसाधनम् 56 (423) / इति सदोचितम् 57 (424) / तदा तदसत्त्वात् 58 (425) / प्रभूतान्येव तु प्रवृत्तिकाल साधनानि 59 (426) / निदानश्रवणादेरपि केषांचित्प्रवृत्तिमात्रदर्शनात् 60 (427) / तस्यापि तथापारम्पर्यसाधनत्वम् 61 (428) / यतिधर्मा धिकास्थायमिति प्रतिषेधः 62 (421) / न चैतत् परिणते चारित्रपरिणामे 63 (430) / तस्य प्रसन्नगम्भीरत्वात् 64 (431) / हितावहत्वात् 65 (432) / तत्साधनानुष्ठानविषयस्तूपदेशः, प्रतिपात्यसौ, कर्मवैचित्र्यात् 66 (433) / तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमा धानज्ञातात् 67 (434) / माध्यस्थ्ये तद्वैफल्यमेव 68 (435) / स्वयंभ्रमणसिद्धेः 69 (436) / भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतरः 70 (437) / इति निदर्शनमात्रम् 71 (438) / न सर्वसाधर्म्ययोगेन 72 (439) / यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वात् 73 (440) / वस्तुतः स्वाभाविकत्वात् 74 (441) / सद्भाववृद्धेः फलोत्कर्षसाधनात् 75 (442) / उपप्लव विगमेन तथावभासनादिति 76 (443) /