________________ प्रायोपवेशनवच्छेयान्निरपेक्षयतिधर्म: 11 (378) / तत्कल्पस्य च परार्थलब्धिविंकलस्य 12 (379) / उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् 13 (380) / उदग्रविवेकभावादलत्रयाराधनात् 14 (381) / अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययात् 15 (382) / निर्वाणफलमत्र तत्त्वतोऽनुष्ठानम् 16 (383) / न चासदभिनिवेशवत्तत् 17 (384) / अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रात् 18 (385) / संभवति तद्वतोऽपि चारित्रम् 19 (386) / अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे 20 (387) / स्वस्वभावोत्कर्षात् 21 (388) / मार्गानुसारित्वात् 32 (389) / तथारुचिस्वभावत्वात् 23 (390) / श्रवणादौ प्रतिपत्तेः 24 (391) / असदाचारगर्हणात् 25 (392) / इत्युचितानुष्ठानमेव सर्वत्र श्रेयः 26 (393) / भावनासारत्वात्तस्य 27 (394) / इयमेव प्रधानं निःश्रेयसाङ्गम् 28 (395) / एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेः 29 (396) / भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वात् 30 (397) / न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नाम 31 (398) / उपरागमात्रत्वात् 32 (399) / दृष्टवदपायेभ्योऽनिवृत्तेः 33 (400) / एतन्मूले च हिताहितयोः प्रवृत्तिनिवृत्ती 34 (401) / अत एव भावनादृष्टज्ञाताद्विपर्ययायोगः 35 (402) / तद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति 46 (403) / इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयान् 37 (404) / तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेः 38 (405) / वचनोपयोगपूर्वा विहितप्रवृत्तिोनिरस्याः 39 (406) / महागुणत्वाद्वचनोपयोगस्य 40 (407) / तत्र ह्यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानगर्भं स्मरणम् 41 (408) / भगवतैवमुक्तमित्याराधनायोगात् 41 (409) / एवं च प्रायो भगवत एव चेतसि समवस्थानम् sy