________________ __ // 29 // क्षीराश्रवादिलब्ध्योघमासाद्य परमाक्षयम् / . कुर्वन्ति भव्यसत्त्वानामुपकारमनुत्तमम् मुच्यन्ते चाशु संसारादत्यन्तमसमञ्जसात् / जन्ममृत्युजराव्याधिरोगशोकाधुपद्रुतात् // 30 // ॥षष्ठोऽध्यायः॥ आशयाधुचितं ज्यायोऽनुष्ठानं सूरयो विदुः / साध्यसिद्ध्यङ्गमित्यस्माद् यतिधर्मे द्विधा मतः // 31 // समग्रा यत्र सामग्री तदक्षेपेण सिद्ध्यति / दवीयसाऽपि कालेन वैकल्ये तु न जातुचित् // 32 // तस्माद्यो यस्य योग्यः स्यात् तत्तेनालोच्य सर्वथा। आरब्धव्यमुपायेन सम्यगेष सतां नयः // 33 // इत्युक्तो यतिधर्मः, इदानीमस्य विषयविभागमनुवर्णयिष्यामः 1 (368) / तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगंभीरचेतसः प्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्ध्यमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् सापेक्षयतिधर्म एव 2 (369) / वचनप्रामाण्यात् 3 (370) / संपूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधात् 4 (371) / परार्थसंपादनोपपत्तेः 5 (372) / तस्यैव च गुरुत्वात् 6 (373) / सर्वथा दुःखमोक्षणात्७ (374) / संतानप्रवृत्तेः 8 (375) / योगत्रयस्याप्युदग्रफलभावात् 9 (376) / निरपेक्षधर्मोचि तस्यापि तत्प्रतिपत्तिकाले परपरार्थसिद्धौ तदन्यसंपादकाभावे प्रतिपत्ति प्रतिषेधाच्च 10 (377) / नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्य संद्वीर्याचा रासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यप्तस्तथैव योगवृद्धः 4