________________ प्रधानो व्यवहारः 49 (530) / प्रतीतिसिद्धश्चायं सद्योगसचेतसाम् 50 (531) / सुस्वास्थ्यं च परमानन्दः 51 (532) / तदन्यनिरपेक्षत्वात् 52 (533) / अपेक्षाया दुःखरूपत्वात् 53 (534) / अर्थान्तरप्राप्त्या हि तन्निर्वृत्तिर्दु:खत्वेनानिवृत्तिरेव 54 (535) / न चास्यार्थान्तरावाप्तिः 55 (536) / स्वस्वभावनियतो ह्यसौ विनिवृत्तेच्छाप्रपञ्च: 56 (537) / अतोऽकामत्वात्तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्तिः 57 (538) / औत्सुक्यवृद्धिर्हि लक्षणमस्याः, हानिश्च समयान्तरे 58 (539) / न चैतत्तस्य भगवतः, आकालं तथावस्थिते: 59 (540) / कर्मक्षयाविशेषात् 60 (541) / इति निरुपमसुखसिद्धिः 61 (542) / सध्यानवह्निना जीवो दग्ध्वा कर्मेन्धनं भुवि / सद्ब्रह्मादिपदैर्गीतं स याति परमं पदम् // 46 // पूर्वावेधवशादेव तत्स्वभावत्वतस्तथा। अनन्तवीर्ययुक्तत्वात् समयेनानुगुण्यतः // 47 // स तत्र दुःखविरहा-दत्यन्तसुखसंगतः / तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगतीश्वरः // 48 //