________________ 37 (95) / अमीषामन्तरदर्शनम् 38 (96) / कषच्छेदयोरयत्नः 39 (97) / तद्भावेऽपि तापाभावेऽभावः 40 (98) / तच्छुद्धौ हि तत्साफल्यम् 41 (99) / फलवन्तौ च तौ तौ 42 (100) / अन्यथा याचितकमण्डनम् 43 (101) / नातत्त्ववेदिवादः सम्यग्वादः 44 (102) / बन्धमोक्षोपपत्तितस्तच्छुद्धिः 45 (103) / इयं बध्यमान-बन्धनभावे 46 (104) / कल्पनामात्रमन्यथा 47 (105) / बध्यमान आत्मा, बन्धनं वस्तुसत् कर्म 48 (106) / हिंसादयस्तद्योगहेतवः, तदितरे तदितरस्य 49 (107) / प्रवाहतोऽनादिमान् 50 (108) / कृतकत्वेऽप्यतीतकालवदुपपत्तिः 51 (109) / वर्तमानताकल्पं कृतकत्वम् 52 (110) / परिणामिन्यात्मनि हिंसादयः, भिन्नाभिन्ने च देहात् 53 (111) / अन्यथा तदयोगः 54 (112) / नित्य एवाविकारतोऽसंभवात् 55 (113) / अनित्ये. चापराहिंसनेन 56 (114) / भिन्न एव देहान स्पृष्टवेदनम् 57 (115) / निरर्थकश्चानुग्रहः 58 (116) / अभिन्न एवामरणं वैकल्यायोगात्. 59 (117) / मरणे परलोकाभावः 60 (118) / देहकृतस्यात्मनाऽनुपभोगः 61 (119) / आत्मकृतस्य देहेन 62 (120) / दृष्टेष्टबाधा 63 (121) / अतोऽन्यथैतत्सिद्धिरिति तत्त्ववादः 64 (122) / परिणामपरीक्षा 65 (123) / शुद्धे बन्धभेदकथनम् 66 / (124) / वरबोधिलाभप्ररूपणा 67 (125) / तथाभव्यत्वादितोऽसौ 68 (126) / ग्रन्थिभेदे नात्यन्तसंक्लेशः 69 (127) / न भूयस्तद्बन्धनम् 70 (128) / असत्यपाये न दुर्गतिः 71 (129) / विशुद्धेश्चारित्रम् 72 (130) / भावनातो रागादिक्षयः 73 (131) / तद्भावेऽपवर्ग: 74 (132) / स आत्यन्तिको दुःखविगम इति 75 (133) / एवं संवेगकृद्धर्म आख्येयो मुनिना परः / यथाबोधं हिशुश्रूषोर्भावितेन महात्मना . // 10 // 55