________________ अबोधेऽपि फलं प्रोक्तं श्रोतृणां मुनिसत्तमैः।। कथकस्य विधानेन नियमाच्छुद्धचेतसः / // 11 // नोपकारो जगत्यस्मिंस्तादृशो विद्यते क्वचित् / यादृशी दुःखविच्छेदाद्देहिनां धर्मदेशना - // 12 // ॥तृतीयोऽध्यायः॥ सद्धर्मश्रवणादेवं नरो विगतकल्मषः / ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः . // 13 // धर्मोपादेयतां ज्ञात्वा संजातेच्छोऽत्र भावतः। दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्तते // 14 // योग्यो ह्येवंविधः प्रोक्तो जिनैः परहितोद्यतैः। फलसाधनभावेन नातोऽन्यः परमार्थतः // 15 // इति सद्धर्मग्रहणार्ह उक्तः, साम्प्रतं तत्प्रदानविधिमनुवर्णयिष्यामः 1 (134) / धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकरणम् 2 (135) / तच्च प्रायो जिनवचनंतो विधिना 3 (136) / इति प्रदानफलवत्ता 4 (137) / सति सम्यग्दर्शने न्याय्यमणुव्रतादीनां ग्रहणम्, नान्यथा 5 (138) / जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनम् 6 (139) / प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत् 7 (140) / उत्तमधर्मप्रतिपत्त्यसहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानम् 8 (141) / सहिष्णोः प्रयोगेऽन्तरायः 9 (142) / अनुमतिश्चेतरत्र 10 (143) / अकथन उभयाफल आज्ञाभङ्गः 11 (144) / भगवद्वचनप्रामाण्यादुपस्थितदाने दोषाभावः 1-2 (145) / गृहपतिपुत्रमोक्षज्ञातात् 13 (146) / योगवन्दननिमित्तदिगाकारशुद्धिविधिः 14 (147) / उचितोपचारश्च 15 (148) / स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्च 16 (149) / दिग्व्रतभोगोपभोग પ૬