________________ // द्वितीयोऽध्यायः // प्रायः सद्धर्मबीजानि गृहिष्वेवंविधेष्वलम् / रोहन्ति विधिनोप्तानि यथा बीजानि सत्क्षितौ // 7 // बीजनाशो यथाऽभूमौ प्ररोहो वेह निष्फलः / तथा सद्धर्मबीजानामपात्रेषु विदुर्बुधाः . // 8 // न साधयति यः सम्यगनः स्वल्पं चिकीर्षितम् / . अयोग्यत्वात् कथं मूढः स महत् साधयिष्यति ? // 9 // इति सद्धर्मदेशनार्ह उक्तः, इदानीं तद्विधिमनुवर्णयिष्यामः 1 (59) / तत्प्रकृति-देवताधिमुक्तिज्ञानम् 2(60) / साधारणगुणप्रशंसा 3 (61) / सम्यक् तदधिकाख्यानम् 4 (62) / अबोधेऽप्यनिन्दा 5 (63) / शुश्रूषाभावकरणम् 6 (64) / भूयो भूय उपदेशः 7 (65) / बोधे प्रज्ञोपवर्णनम् 8 (66) / तन्त्रावतार:'९ (67) / प्रयोग आक्षेपण्या: 10 (68) / ज्ञानाद्याचारकथनम् 11 (69) / निरीहशक्यपालना 12 (70) / अशक्ये भावप्रतिपत्तिः 13 (71) / पालनोपायोपदेशः 14 (72) / फलप्ररूपणा 15 (73) / देवर्द्धिवर्णनम् 16 (74) / सुकुलागमनोक्तिः 17 (75) / कल्याणपरम्पराख्यानम् 18 (76) / असदाचारगर्दा 19 (77) / तत्स्व रूपकथनम् 20 (78) / स्वयं परिहार: 21 (79) / ऋजुभावाऽऽसेवनम् 22 (80) / अपायहेतुत्वदेशना 23 (81) / नारकदुःखोपवर्णनम् 24 (82) / दुष्कुलजन्मप्रशास्ति: 25 (83) / दुःखपरम्परानिवेदनम् 26 (84) / उपायतो मोहनिन्दा 27 (85) / सज्ज्ञानप्रशंसनम् 28 (86) / पुरुषकारसत्कथा 29 (87) / वीर्यद्धिवर्णनम् 30 (88) / परिणते गम्भीरदेशनायोगः-३१ (89) / श्रुतधर्मकथनम् 32 (90) / बहुत्वात् परीक्षावतार: 33(91) कषादिप्ररूपणा 34 (92) / विधिप्रतिषेधौ कषः 35 (93) / तत्सम्भवपालनाचेष्टोक्तिश्छेदः 36 (94) / उभयनिबन्धनभाववादस्तापः પ૪