________________ सर्वेष्ववर्णवादत्यागो विशेषतो राजादिषु 28 / असदाचारैरसंसर्गः 29 / संसर्गः सदाचारै: 30 / मातापितृपूजा 31 / आमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाभिनवोपनयनम्, तद्भोगे भोगोऽन्यत्र तदनुचितात् 32 / अनुवैजनी प्रवृत्तिः 33 / भर्तव्यभरणम् 34 / तस्य यथोचितं विनियोगः 35 / तत्प्रयोजनेषु बद्धलक्षता 36 / अपायपरिरक्षोद्योगः 37 / गर्थे ज्ञानस्वगौरवरक्षे 38 / देवातिथिदीनप्रतिपत्तिः 39 / तदौचित्याबाधनमुत्तमनिदर्शनेन 40 / सात्म्यतः कालभोजनम् 41 / लौल्यत्यागः 42 / अजीर्णे अभोजनम् 43 / बलापाये प्रतिक्रिया 44 / अदेशकालचर्यापरिहारः 45 / यथोचितं लोकयात्रा 46 / हीनेषु हीनक्रमः 47 / अतिसङ्गवर्जनम् 48 / वृत्तस्थज्ञानवृद्धसेवा 49 / परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्ति: 50 / अन्यतरबाधासंभवे मूलाबाधा 51 / बलाबलापेक्षणम् 52 / अनुबन्धे प्रयत्न: 53 / कालोचितापेक्षा 54 / प्रत्यहं धर्मश्रवणम् 55 / सर्वत्रानभिनिवेश: 56 / गुणपक्षपातिता 57 / ऊहापोहादियोग इति 58 / एवं स्वधर्मसंयुक्तं सद् गार्हस्थ्यं करोति यः / लोकद्वयेऽप्यसौ धीमान् सुखमाप्नोत्यनिन्दितम् दुर्लभं प्राप्य मानुष्यं विधेयं हितमात्मनः / करोत्यकाण्ड एवेह मृत्युः सर्वं न किञ्चन // 5 // सत्येतस्मिन्नसारासु संपत्स्वविहिताग्रहः . पर्यन्तदारुणासूच्चैधर्मः कार्यो महात्मभिः // 6 // // 4 // 43