________________ ॥धर्मबिन्दुः // ॥प्रथमोऽध्यायः॥ प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्णवात् / धर्मबिन्दुं प्रवक्ष्यामि तोयबिन्दुमिवोदधेः // 1 // धनदो धनार्थिनां प्रोक्तः कामिनां सर्वकामदः / धर्म एवापवर्गस्य पारम्पर्येण साधकः // 2 // वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् / ' मैत्र्यादिभावसंयुक्तं तद्द्धर्म इति कीर्त्यते - // 3 // सोऽयमनुष्ठातृभेदात् द्विविधः-गृहस्थधर्मो यतिधर्मश्च 1 / तत्र गृहस्थधर्मोऽपि द्विविधः-सामान्यतो विशेषतश्च 2 / तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानम् 3 / न्यायोपात्तं हि वित्तमुभयलोकहिताय 4 / अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाच्च 5 / अहितायैवान्यत् 6 / तदनपायित्वेऽपि मत्स्यादिगलादिवद्विपाकदारुणत्वात् 7 / न्याय एव ह्याप्त्युपनिषत् परेति समयविदः 8 / ततो हि नियमतः प्रतिबन्धककर्मविगमः 9 / सत्यस्मिन्नायत्यामर्थसिद्धिः 10 / अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो नि:संशयस्त्वनर्थ 11 / समानकुलशीलादिभिरगोत्रजैर्वैवाह्यमन्यत्र बहुविरुद्धेभ्यः 12 / दृष्टादृष्टबाधाभीतता 13 / शिष्टचरितप्रशंसनम् 14 / अरिषड्वर्गत्यागे- नाविरुद्धार्थप्रतिपत्त्येन्द्रियजयः 15 / उपप्लुतस्थानत्यागः 16 / स्वयोग्यस्याऽऽश्रयणम् 17 / प्रधानसाधुपरिग्रहः 18 / स्थाने गृहकरणम् 19 / अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं च 20 / लक्षणोपेतगृहवासः 21 / निमित्तपरीक्षा 22 / अनेकनिर्गमादिवर्जनम् 23 / विभवाद्यनुरूपो वेषो विरुद्धल्यागेन 24 / आयोचितो व्यय: 25 / प्रसिद्धदेशाचारपालनम् 26 / गर्हितेषु गाढमप्रवृत्तिः 27 / પર