________________ मुक्तांशत्वे विकारित्वमंशानां नोपपद्यते। .. तेषां चेहाऽविकारित्वे सन्नीत्या मुक्ततांशिनः // 515 // समुद्रोर्मिसमत्वं च यदंशानां प्रकल्प्यते / न हि तद्भेदकाभावे सम्यग्युक्त्योपपद्यते // 516 // सदाद्यमत्र हेतुः स्यात्तात्त्विके भेद एव हि। प्रागभावादिसंसिद्धेर्न सर्वथान्यथा त्रयम् / // 517 // सत्त्वाद्यभेद एकान्तांद्यदि तद्भेददर्शनम् / भिन्नार्थमसदेवेति तद्वदद्वैतदर्शनम् / // 518 // यदा नार्थान्तरं तत्त्वं विद्यते किञ्चिदात्मनाम् / मालिन्यकारि तत्त्वेन न तदा बन्धसम्भवः // 519 // असत्यस्मिन् कुतो मुक्तिबन्धाभावनिबन्धना / मुक्तमुक्तिर्न यन्याय्या भावेऽस्यातिप्रसङ्गिता // 520 // कल्पितादन्यतो बन्धो न जातु स्यादकल्पितः / कल्पितश्चेत्ततश्चिन्त्यो ननु मुक्तिरकल्पिता // 521 // नान्यतोऽपि तथाभावाहते तेषां भवादिकम् / ततः किं केवलानां तु ननु हेतुसमत्वतः // 522 // मुक्तस्येव तथाभावकल्पना यन्निरर्थका। स्यादस्यां प्रभवन्त्यां तु बीजादेवाङ्कुरोदयः // 523 // एवमाद्यत्र शास्त्रज्ञैस्तत्त्वतः स्वहितोद्यतैः / माध्यस्थ्यमवलम्ब्योच्चैरालोच्यं स्वयमेव तु // 524 // आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम्। . दृष्टेष्टाबाधितो यस्तु युक्तस्तस्य परिग्रहः // 525 // स्वल्पमत्यनुकम्पायै योगशास्त्रमहार्णवात् / / आचार्यहरिभद्रेण योगबिन्दुः समुद्धृतः // 526 // 256