________________ // 431 // // 432 // // 433 / / // 434 // // 435 // / // 436 // अग्नेरुष्णत्वकल्पं तज्ज्ञानमस्य व्यवस्थितम् / प्रतिबन्धकसामर्थ्यान्न स्वकार्ये प्रवर्तते ज्ञो ज्ञेये कथमज्ञः स्वादसति प्रतिबन्धके / दाह्येऽग्निर्दाहको न स्यात्कथमप्रतिबन्धकः न देशविप्रकर्षोऽस्य युज्यते प्रतिबन्धकः / तथाऽनुभवसिद्धत्वादग्नेरिव सुनीतितः अंशतस्त्वेष दृष्टान्तो धर्ममात्रत्वदर्शकः / अदाह्यादहनाद्येवमत एव न बाधकम् सर्वत्र सर्वसामान्यज्ञानाज्ज्ञेयत्वसिद्धितः / तस्याखिलविशेषेषु तदेतन्यायसङ्गतम् सामान्यवद्विशेषाणां स्वभावो ज्ञेयभावतः / ज्ञायते स च साक्षात्त्वाद्विना विज्ञायते.कथम् अतोऽयं ज्ञस्वभावत्वात्सर्वज्ञः स्यान्नियोगतः / / नान्यथा ज्ञत्वमस्येति सूक्ष्मबुद्ध्या निरूप्यताम् एवं च तत्त्वतोऽसारं यदुक्तं मतिशालिना। . इह व्यतिकरे किञ्चिच्चारुबुद्ध्या सुभाषितम् ज्ञानवान्मृग्यते कश्चित्तदुक्तप्रतिपत्तये। अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः / तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् / . कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः / यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु / प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे // 437 // // 438 // // 439 // // 440 // // 441 // // 442 // 248