________________ // 419 / ... // 420 // // 421 // // 422 // // 423 // // 424 // समाधिरेष एवाऽन्यैः सम्प्रज्ञातोऽभिधीयते / सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा एवमासाद्य चरमं जन्माऽजन्मत्वकारणम् / श्रेणिमाप्य ततः क्षिप्रं केवलं लभते क्रमात् असम्प्रज्ञात एषोऽपि समाधिर्गीयते परैः / निरुद्धाऽशेषवृत्त्यादि तत्स्वरूपानुवेधतः धर्ममेघोऽमृतात्मा च भवशक्रशिवोदयः / सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्थयोगतः मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः / योग्यताऽपगमाद्दग्ध्वा ततः कल्याणमश्नुते यथोदितायाः सामग्र्यास्तत्स्वाभाव्यनियोगतः / योग्यतापगमोऽप्येवं सम्यग्ज्ञेयो महात्मभिः साक्षादतीन्द्रियानन्दृष्ट्वा केवलचक्षुषा / अधिकारवशात्कश्चिद्देशनायां प्रवर्तते प्रकृष्टपुण्यसामर्थ्यात्प्रातिहार्यसमन्वितः / . अवन्ध्यदेशनः श्रीमान्यथाभव्यं नियोगतः केचित्तु योगिनोऽप्येतदित्थं नेच्छन्ति केवलम् / अन्ये तु मुक्त्यवस्थायां सहकारिवियोगतः चैतन्यमात्मनो रूपं न च तज्ज्ञानतः पृथक् / युक्तितो युज्यतेऽन्ये तु ततः केवलमाश्रिताः अस्मादतीन्द्रियज्ञप्तिस्ततः सद्देशनागमः / नान्यथा छिन्नमूलत्वादेतदन्यत्र दर्शितम् तथा चेहात्मनो ज्ञत्वे संविदस्योपपद्यते। * * एषां चानुभवात्सिद्धा प्रतिप्राण्येव देहिनाम् . 248 // 425 // // 426 // // 427 // // 428 // // 429 // // 430 //