________________ // 359 // // 360 // // 361 // // 362 // // 363 // // 364 // अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् / तथाऽनुभवसंसिद्धममृतं ह्यद एव तु अभ्यासोऽस्यैव विज्ञेयः प्रत्यहं वृद्धिसङ्गतः / मन:समाधिसंयुक्तः पौनःपुन्येन भावना निवृत्तिरशुभाभ्यासाच्छुभाभ्यासानुकूलता / तथा सुचित्तवृद्धिश्च भावनायाः फलं मतम् शुभैकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः / स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् वशिता चैव सर्वत्र भावस्तमित्यमेव च / अनुबन्धव्यवच्छेद उदर्कोऽस्येति तद्विदः अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु / संज्ञानात्तद्वयुदासेन समता समतोच्यते . ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा / अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा। अपुनर्भावरूपेण स तु तत्संक्षयो मतः अतोऽपि केवलज्ञानं शैलेंशीसम्परिग्रहः / . मोक्षप्राप्तिरनाबाधा सदानन्दविधायिनी / तात्त्विकोऽतात्त्विकश्चायमिति यच्चोदितं पुरा / तस्येदानीं यथायोगं योजनात्राभिधीयते अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः / अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु सकृदावर्तनादीनामतात्त्विक उदाहृतः / प्रत्यपायफलप्रायस्तथावेषादिमात्रतः // 365 // // 366 // // 367 // // 368 // / / 369 // // 370 // 243