________________ // 263 // // 264 // // 265 // // 266 // // 267 // // 268 // एवम्भूतोऽयमाख्यातः सम्यग्दृष्टिर्जिनोत्तमैः / यथाप्रवृत्तिकरणंव्यतिक्रान्तो महाशयः करणं परिणामोऽत्र सत्त्वानां तत्पुनस्त्रिधा। यथाप्रवृत्तिमाख्यातमपूर्वमनिवृत्ति च एतत्रिधापि भव्यानामन्येषामाद्यमेव हि। ग्रन्थिं यावत्त्विदं तं तु समतिक्रामतोऽपरम् भिन्नग्रन्थेस्तृतीयं तु सम्यग्दृष्टेरतो हि न / पतितस्याऽऽप्यते बन्धो ग्रन्थिमुल्लङ्घय देशितः एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः / मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः / अभिन्नग्रन्थिबन्धो यन्न त्वेकोऽपीतरस्य तु तदत्र परिणामस्य भेदकत्वं नियोगतः / बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि . अयमस्यामवस्थायां बोधिसत्त्वोऽभिधीयते / / अन्यैस्तल्लक्षणं यस्मात्सर्वमस्योपपद्यते कायपातिन एवेह बोधिसत्त्वाः परोदितम् / न चित्तपातिनस्तावदेतदत्रापि युक्तिमत् / परार्थरसिको धीमान्मार्गगामी महाशयः / . गुणरांगी तथेत्यादि सर्वं तुल्यं द्वयोरपि यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो महोदयः / सत्त्वोऽस्तु बोधिसत्त्वस्तद्धन्तैषोऽन्वर्थतोऽपि हि वरबोधिसमेतो वा तीर्थकृद्यो भविष्यति / तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः 235 // 269 // // 270 // // 271 // // 272 // // 273 // // 274 //