________________ // 203 // // 204 // // 205 // // 206 // - // 207 // || 208 // भिन्नग्रन्थेस्तु यत्प्रायो मोक्षे चित्तं भवे तनुः / तस्य तत्सर्व एवेह योगो योगो हि भावतः नार्या यथान्यसक्तायास्तत्र भावे सदा स्थिते / तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् / न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् / इतरेणाकुलस्यापि तत्र चित्तं न जायते चारु चैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते / एतद्वियोगविषयः शुद्धानुष्ठानभाक् स यत् प्रकृतेरा यतश्चैव नाप्रवृत्त्यादिधर्मताम् / तथा विहाय घटत ऊहोऽस्य विमलं मनः सति चास्मिन्स्फुरद्रत्नकल्पे सत्त्वोल्बणत्वतः / भावस्तैमित्यतः शुद्धमनुष्ठानं सदैवं हि एतच्च योगहेतुत्वाद्योग इत्युचितं वचः / मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् त्रिधा शुद्धमनुष्ठानं सच्छास्त्रपरतन्त्रता। सम्यक्प्रत्ययवृत्तिश्च तथात्रैव प्रचक्षते विषयात्मानुबन्धैस्तु त्रिधा शुद्धमुदाहृतम् / अनुष्ठानं प्रधानत्वं ज्ञेयमस्य यथोत्तरम् आद्यं यदेव मुक्त्यर्थं क्रियते पतनाद्यपि / तदेव मुक्तयुपादेयलेशभावाच्छुभं मतम् द्वितीयं तु यमाद्येव लोकदृष्ट्या व्यवस्थितम् / न यथाशास्त्रमेवेह सम्यग्ज्ञानाद्ययोगतः तृतीयमप्यदः किन्तु तत्त्वसंवेदनानुगम्। प्रशान्तवृत्त्या सर्वत्र दृढमौत्सुक्यवर्जितम् 230 // 209 // // 210 // // 211 // // 212 // // 213 // // 214 //