________________ // 179 // . // 18 // // 181 // // 182 // . // 183 // * // 184 // अस्यैषा मुख्यरूपा स्यात्पूर्वसेवा यथोदिता। कल्याणाशययोगेन शेषस्याप्युपचारतः . कृतश्चास्या उपन्यासः शेषापेक्षोऽपि कार्यतः / नासन्नोऽप्यस्य बाहुल्यादन्यथैतत्प्रदर्शकः शुध्यल्लोके यथा रत्नं जात्यं काञ्चनमेव वा। गुणैः संयुज्यते चित्रैस्तद्वदात्मापि दृश्यताम् तत्प्रकृत्यैव शेषस्य केचिदेनां प्रचक्षते / आलोचनाद्यभावेन तथानाभोगसङ्गताम् युज्यते चैतदप्येवं तीव्र मलविषे न यत् / तदावेगो भवासङ्गस्तस्योच्चैर्विनिवर्तते सङ्क्लेशायोगतो भूयः कल्याणाङ्गतया च यत् / तात्त्विकी प्रकृतिज्ञेया तदन्या तूपचारतः एनां चाश्रित्य शास्त्रेषु व्यवहारः प्रवर्तते / ततश्चाधिकृतं वस्तु नान्यथेति स्थितं ह्यदः . शान्तोदात्तत्वमत्रैव शुद्धानुष्ठानसाधनम् / सूक्ष्मभावोहसंयुक्तं तत्त्वसंवेदनानुगम् शान्तोदात्तः प्रकृत्येह शुभभावाश्रयो मतः। धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान्युवा अनीदृशस्य च यथा न भोगसुखमुत्तमम् / अशान्तादेस्तथा शुद्धं नानुष्ठानं कदाचन मिथ्याविकल्परूपं तु द्वयोर्द्वयमपि स्थितम् / स्वबुद्धिकल्पनाशिल्पिनिर्मितं न तु तत्त्वतः भोगाङ्गशक्तिवैकल्यं दरिद्रायौवनस्थयोः। सुरूपरागाशङ्के च कुरूपस्य स्वयोषिति / / 228 // 185 // / / 186 // // 187 // " // 188 // // 189 // // 190 //