________________ // 167 // // 168 // // 169 // / / 170 // // 171 // / / 172 // तदन्यकर्मविरहान्न चेत्तद्बन्ध इष्यते / तुल्ये तद्योग्यताभावे ननु किं तेन चिन्त्यताम् तस्मादवश्यमेष्टव्या स्वाभाविक्येव योग्यता / तस्यानादिमती सा च मलनान्मल उच्यते दिदृक्षाभवबीजादिशब्दवाच्या तथा तथा / इष्टा चान्यैरपि ह्येषा मुक्तिमार्गावलम्बिभिः एवं चापगमोऽप्यस्याः प्रत्यावर्त सुनीतितः / स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा तत: शुभमनुष्ठानं सर्वमेव हि देहिनाम् / विनिवृत्ताग्रहत्वेन तथाबन्धेऽपि तत्त्वतः नात एवाणवस्तस्य प्राग्वत्सङ् क्लेशहेतवः / तथान्तस्तत्त्वसंशुद्धरुदग्रशुभभावतः सत्साधकस्य चरमा समयापि बिभीषिका / न खेदाय यथात्यन्तं तद्वदेतद्विभाव्यताम् सिद्धेरासन्नभावेन यः प्रमोदो विजृम्भते / चेतस्यस्य कुतस्तेन खेदोऽपि लभतेऽन्तरम् न चेयं महतोऽर्थस्य सिद्धिरात्यन्तिकी न च। मुक्तिः पुनर्द्वयोपेता सत्प्रमोदास्पदं ततः आसन्ना चेयमस्योच्चैश्चरमावर्तिनो यतः। . भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किञ्चन अत एव च योगज्ञैरपुनर्बन्धकादयः / भावसारा विनिर्दिष्टास्तथापेक्षादिवर्जिताः भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः / वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः - 227 // 173 // // 174 // // 175 // // 176 // // 177 // // 178 //