________________ // 143 // // 144 // // 145 // // 146 // // 147 // // 148 // उत्तुङ्गारोहणात्पातो विषान्नात्तृप्तिरेव च / अनर्थाय यथात्यन्तं मलनापि तथेक्ष्यताम् अत एव च शस्त्राग्निव्यालंदुर्ग्रहसन्निभः / श्रामण्यदुर्ग्रहोऽस्वन्तः शास्त्र उक्तो महात्मभिः ग्रैवेयकाप्तिरप्येवं नातः श्लाघ्या सुनीतितः / यथाऽन्यायाजिता सम्पद्विपाकविरसत्वतः अनेनापि प्रकारेण द्वेषाभावोऽत्र तत्त्वतः / हितस्तु यत्तदेतेऽपि तथाकल्याणभागिनः येषामेव न मुक्त्यादौ द्वेषो गुर्वादिपूजनम् / त एव चारु कुर्वन्ति नान्ये तद्गुरुदोषतः सच्चेष्टितमपि स्तोकं गुरुदोषवतो न तत् / भौतहन्तुर्यथान्यत्र पादस्पर्शनिषेधनम् / गुर्वादिपूजनान्नेह तथा गुण उदाहृतः / मुक्त्यद्वेषाद्यथात्यन्तं महापायनिवृत्तितः भवाभिष्वङ्गभावेन तथाऽनाभोगयोगतः / साध्वनुष्ठानमेवाहुनॆतान्भेदान्विपश्चितः इहामुत्र फलापेक्षा भवाभिष्वङ्ग उच्यते / तथानध्यवसायस्तु स्यादनाभोग इत्यपि / एतद्युक्तमनुष्ठानमन्यावर्तेषु तद्धृवम् / चरमं त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते / सरुजेतरभेदेन भोजनादिगतं यथा इत्थं चैतद्यतः प्रोक्तं सामान्येनैव पञ्चधा। . विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः 225 // 149 // // 150 // // 151 // / / 152 // // 153 // // 154 //