________________ // 131 // // 132 // // 1.33 // . // 134 // // 135 // तपोऽपि च यथाशक्ति कर्तव्यं पापतापनम् / तच्च चान्द्रायणं कृच्छं मृत्युनं पापसूदनम् - एकैकं वर्धयेद्यासं शुक्ले कृष्णे च हापयेत् / भुञ्जीत नामावास्यायामेष चान्द्रायणो विधि: सन्तापनादिभेदेन कृच्छ्रमुक्तमनेकधा / अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् मासोपवासमित्याहुम॒त्युघ्नं तु तपोधनाः / मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः / पापसूदनमप्येवं तत्तत्पांपाद्यपेक्षया। चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् कृत्स्नकर्मक्षयान्मुक्ति गसङ्क्लेशर्जिता / भवाभिनन्दिनामस्यां द्वेषोऽज्ञाननिबन्धनः श्रूयन्ते चैतदालापा लोके तावदशोभनाः / शास्त्रेष्वपि हि मूढानामश्रोतव्याः सदा सताम् .. वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् / न त्वेवाविषयो मोक्षः कदाचिदपि गौतम ! महामोहाभिभूतानामेवं द्वेषोऽत्र जायते / अकल्याणवतां पुंसां तथा संसारवर्धनः नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः / भवबीजपरित्यागात्तथा कल्याणभागिनः सज्ज्ञानादिश्च यो मुक्तेरुपायः समुदाहृतः / मलनायैव तत्रापि न चेष्टैषां प्रवर्तते स्वाराधनाद्यथैतस्य फलमुक्तमनुत्तरम् / मलनायास्त्वनर्थोऽपि महानेव तथैव हि 224 // 137 // // 138 // // 139 // // 140 // // 141 // // 142 //