________________ स्वरूपं सम्भवं चैव वक्ष्याम्यूर्ध्वमनुक्रमात्। अमीषां योगभेदानां सम्यक् शास्त्रानुसारतः / // 35 / / इदानीं तु समासेन योगमाहात्म्यमुच्यते। पूर्वसेवाक्रमश्चैव प्रवृत्त्यङ्गतया सताम् / . // 36 // योगः कल्पतरुः श्रेष्ठो योगश्चिन्तामणिः परः / . योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः : // 37 // तथा च जन्मबीजाग्निर्जरसोऽपि जरा परा / दुःखानां राजयक्ष्मायं मृत्योर्मृत्युरुदाहृतः - // 38 // कुण्ठीभवन्ति तीक्ष्णानि मन्मथास्त्राणि सर्वथा। ... योगवर्मावृते चित्ते तपश्छिद्रकराण्यपि // 39 // अक्षरद्वयमप्येतच्छ्यमाणं विधानतः / गीतं पापक्षयायोच्चैर्योगसिद्धैर्महात्मभिः . // 40 // मलिनस्य यथा हेम्नो वह्नः शुद्धिर्नियोगतः / योगाग्नेश्चेतसस्तद्वदविद्यामंलिनात्मनः // 41 // अमुत्र संशयापन्नचेतसोऽपि ह्यतो ध्रुवम् / सत्स्वप्नप्रत्ययादिभ्यः संशयो विनिवर्तते // 42 // श्रद्धालेशान्नियोगेन बाह्ययोगवतोऽपि हि। शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः // 43 // देवान्गुरून्द्विजान्साधून्सत्कर्मस्था हि योगिनः / प्रायः स्वप्ने प्रपश्यन्ति हृष्टान्सन्नोदनापरान् // 44 // नोदनापि च सा यतो यथार्थेवोपजायते / तथाकालादिभेदेन हन्त नोपप्लवस्ततः // 45 // स्वप्नमन्त्रप्रयोगाच्च सत्यस्वप्नोऽभिजायते। . विद्वज्जनेऽविगानेन सुप्रसिद्धमिदं तथा / // 46 // 216