________________ / / 23 // // 24 // / / 25 // // 26 // // 27 // // 28 // वचनादस्य संसिद्धिरेतदप्येवमेव हि। दृष्टेष्टाबाधितं तस्मादेतन्मृग्यं हितैषिणा दृष्टबाधैव यत्रास्ति ततोऽदृष्टप्रवर्तनम् / असच्छ्रद्धाभिभूतानां केवलं ध्यान्ध्यसूचकम् प्रत्यक्षेणानुमानेन यदुक्तोऽर्थो न बाध्यते / दृष्टेऽदृष्टेऽपि युक्ता स्यात्प्रवृत्तिस्तत एव तु अतोऽन्यथाप्रवृत्तौ तु स्यात्साधुत्वाद्यनिश्चितम् / वस्तुतत्त्वस्य हन्तैवं सर्वमेवासमञ्जसम् तदृष्टाद्यनुसारेण वस्तुतत्त्वव्यपेक्षया / तथातथोक्तिभेदेऽपि साध्वी तत्त्वव्यवस्थितिः अमुख्यविषयो यः स्यादुक्तिभेदः स बाधकः / हिंसाऽहिंसादिवद्यद्वा तत्त्वभेदव्यपाश्रयः मुख्ये तु तत्र नैवासौ बाधकः स्याद्विपश्चिताम् / . हिंसादिविरतावर्थे यमव्रतगतो यथा मुख्यतत्त्वानुवेधेन स्पष्टलिङ्गान्वितस्ततः / युक्तागमानुसारेण योगमार्गोऽभिधीयते अध्यात्म भावना ध्यानं समता वृत्तिसङ्ग्यः / मोक्षेण योजनाद्योग एष श्रेष्ठो यथोत्तरम् तात्त्विकोऽतात्त्विकश्चायं सानुबन्धस्तथाऽपरः / सास्रवोऽनास्त्रवश्चेति संज्ञाभेदेन कीर्तितः तात्त्विको भूत एव स्यादन्यो लोकव्यपेक्षया / अच्छिनः सानुबन्धस्तु छेदवानपरो मतः सास्रवो दीर्घसंसारस्ततोऽन्योऽनास्रवः परः / अवस्थाभेदविषयाः संज्ञा एता यथोदिताः 215 // 29 // // 30 // // 31 // // 32 // // 33 // // 34 //