________________ // 47 // // 48 // // 49 // // 50 // // 51 // न ह्येतद्भूतमात्रत्वनिमित्तं सङ्गतं वचः / अयोगिनः समध्यक्षं यन्नैवंविधगोचरम् प्रलापमात्रं च वचो यदप्रत्यक्षपूर्वकम् / यथेहाप्सरसः स्वर्गे मोक्षे चानन्द उत्तमः योगिनो यत्समध्यक्षं ततश्चेदुक्तनिश्चयः / आत्मादेरपि युक्तोऽयं तत एवेति चिन्त्यताम् अयोगिनो हि प्रत्यक्षगोचरातीतमप्यलम् / विजानात्येतदेवं च बाधात्रापि न विद्यते आत्माद्यतीन्द्रियं वस्तु योगिप्रत्यक्षभावतः / परोक्षमपि चान्येषां न हि युक्त्या न युज्यते किं चान्यद्योगतः स्थैर्य धैर्यं श्रद्धा च जायते / मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम् विनिवृत्ताग्रहत्वं च तथा द्वन्द्वसहिष्णुता। तदभावश्च लाभश्च बाह्यानां कालसङ्गतः . धृतिः क्षमा सदाचारो योगवृद्धिः शुभोदया। . आदेयता गुरुत्वं च शमसौख्यमनुत्तरम् आविद्वदङ्गनासिद्धमिदानीमपि दृश्यते / एतत्प्रायस्तदन्यत्तु सुबह्वागमभाषितम् न चैतद्भूतसङ्घातमात्रादेवोपपद्यते।। तदन्यभेदकाभावे तद्वैचित्र्याप्रसिद्धितः ब्रह्मचर्येण तपसा सवेदाध्ययनेन च / विद्यामन्त्रविशेषेण सत्तीर्थासेवनेन च पित्रोः सम्यगुपस्थानाद् ग्लानभैषज्यदानतः / देवादिशोधनाच्चैव भवेज्जातिस्मरः पुमान् // 53 // // 54 // // 55 // / / 56 // / / 57 // // 58 // 210