________________ // 192 // // 193 // 194 // // 195 // // 196 // // 197 // स्वभावोऽस्य स्वभावो यन्निजा सत्तैव तत्त्वतः / भावावधिरयं युक्तो नान्यथातिप्रसङ्गतः अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु / तयाऽविरोधान्नित्योऽसौ स्यादसत्त्वात् सदैव हि स एव न भवत्येतदन्यथाभवतीतिवत् / विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् / तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः स क्षणस्थितिधर्मा चेद् द्वितीयादिक्षणास्थितौ / युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः क्षणस्थितौ तदैवास्य नास्थितियुक्त्यसङ्गतेः। न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् भवभावानिवृत्तावप्ययुक्ता मुक्तकल्पना / एकान्तैकस्वभावस्य न ह्यवस्थाद्वयं क्वचित् तदभावे च संसारी मुक्तश्चेति निरर्थकम् / . तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् दिदृक्षाद्यात्मभूतं तन्मुख्यमस्या निवर्तते / प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः अन्यथा स्यादियं नित्यमेषा च भव उच्यते / एवं च भवनित्यत्वे कथं मुक्तस्य सम्भवः अवस्था तत्त्वतो नो चेन्ननु तत्प्रत्ययः कथम्। भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते योगिज्ञानं तु मानं चेत्तदवस्थान्तरं तु तत् / ' ततः किं भ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता 210 // 198 // || 199 // // 200 // // 201 // // 202 // // 203 / /