________________ / 204 // // 205 // // 206 // // 207 // // 208 // / 209 // व्याधितस्तदभावो वा तदन्यो वा यथैव हि। व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते संसारी तदभावो वा तदन्यो वा तथैव हि / मुक्तोऽपि हन्त नो मुक्तो मुख्यवृत्त्येति तद्विदः क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः / भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् अनेकयोगशास्त्रेभ्यः सङ्केपेण समुद्धृतः / दृष्टिभेदेन योगोऽयमात्मानुस्मृतये पर: कुलादियोगभेदेन चतुर्धा योगिनो यतः / अतः परोपकारोऽपि लेशतो न विरुध्यते कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः / योगिनो न तु सर्वेऽपि तथा सिद्धयादिभावतः ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये। कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे सर्वत्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः / ' दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः / शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः / आद्यावञ्चकयोगाप्त्या तदन्यद्वयलाभिनः / .. एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः इहाहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् / अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः तद्वत्कथाप्रीतियुता तथाविपरिणामिनी / . यमेष्विच्छावसेयेह प्रथमो यम एव तु // 210 // // 211 // // 212 // // 213 // // 214 // // 215 // . 211