________________ // 156 // // 157 // // 158 // // 159 // // 160 // // 161 // मायामरीचिगन्धर्वनगरस्वप्नसंनिभान् / बाह्यान् पश्यति तत्त्वेन भावान् श्रुतविवेकतः अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् / यदत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः एवं विवेकिनो धीराः प्रत्याहारपरास्तथा / धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः न ह्यलक्ष्मीसखी लक्ष्मीर्यथानन्दाय धीमताम् / तथा पापसखा लोके देहिनां भोगविस्तरः धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् / चन्दनादपि सम्भूतो दहत्येव हुताशनः भोगात्तदिच्छाविरतिः स्कन्धभारापनुत्तये / स्कन्धान्तरसमारोपस्तत्संस्कारविधानतः. कान्तायामेतदन्येषां प्रीतये धारणा परा। अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदया अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः / प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा श्रुतधर्मे मनो नित्यं कायस्तस्यान्यचेष्टिते / अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् ! . तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः भोगास्वरूपतः पश्यंस्तथा मायोदकोपमान् / भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् / मायोदकदृढावेशस्तेन यातीह कः पथा // 162 // // 163 // / / 164 // // 165 / / // 166 // // 167 // 200