________________ // 144 // // 145 // // .146 // // 147 // // 148 // // 149 // न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः / न चातो निश्चयः सम्यगन्यत्राप्याह धीधनः यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः / अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते | ज्ञायेरन्हेतुवादेन पदार्था यद्यतीन्द्रियाः / कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् / मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः / / मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् तदत्र महतां वर्त्म समाश्रित्य विचक्षणैः / वर्तितव्यं यथान्यायं तदतिक्रमवजितें: परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः / तद्वत्तदुपकारेऽपि यतितव्यं सदैव हि गुरवो देवता विप्रा यतयश्च तपोधनाः / / पूजनीया महात्मानः सुप्रयत्नेन चेतसा पापवत्स्वपि चात्यन्तं स्वकर्मनिहतेष्वलम् / अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः कृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना। तत्पुनः पञ्चमी तावद्योगदृष्टिमहोदया स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च / कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् बालधूलीगृहक्रीडातुल्यास्यां भाति धीमताम् तमोग्रन्थिविभेदेन भवचेष्टाखिलैव हि 206 // 150 // // 151 // // 152 // // 153 // // 154 // // 155 //